अनारिकायाः जिज्ञासा
(क) बालिकायाः अनारिकायाः मनसि सर्वदा महती जिज्ञासा भवति। अतः
सा बहून् प्रश्नान्
पृच्छति। तस्याः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।
सरलार्थ :
बालिका अनारिका के मन में हमेशा बड़ा कुतूहल (जानने की इच्छा)
होता है। इसलिए वह बहुत प्रश्न पूछती है। उसके प्रश्नों से सबकी बुद्धि पहिए के
समान घूमने लगती है।
(ख) प्रातः
उत्थाय सा अन्वभवत् यत् तस्याः मनः प्रसन्नं नास्ति। मनोविनोदाय सा भ्रमितुं
गृहात् बहिः अगच्छत्। भ्रमणकाले सा अपश्यत् यत् मार्गाः सुसज्जिताः सन्ति। सा
चिन्तयति- किमर्थम् इयं सज्जा? सा अस्मरत् यत् अद्य तु मन्त्री
आगमिष्यति।
सरलार्थ : सुबह उठकर उसने अनुभव किया कि उसका मन प्रसन्न (खुश)
नहीं है। मन प्रसन्न करने के लिए वह घूमने के लिए घर से बाहर गई। घूमने के समय
उसने देखा कि रास्ते सजे हुए हैं। वह सोचती है-किस लिए यह तैयारी है?
उसे याद आया कि आज तो मन्त्री आएँगे।
(ग) सः अत्र
किमर्थम् आगमिष्यति इति विषये तस्याः जिज्ञासाः प्रारब्धाः। गृहम् आगत्य सा पितरम्
अपृच्छत्-“पितः! मन्त्री किमर्थम् आगच्छति?”
पिता अवदत्-“पुत्रि! नद्याः उपरि किं मन्त्री
सेतोः निर्माणम् अकरोत्?”
सरलार्थ :
वे यहाँ किसलिए आएँगे इस विषय में उसका कुतूहल आरम्भ हुआ। घर
आकर उसने पिता से पूछा-“पिता जी! मन्त्री किसलिए आ रहे हैं।”
पिता जी बोले-“पुत्री! नदी
के ऊपर नया पुल बना है, उसके उद्घाटन के लिए मन्त्री आ रहे
हैं।” अनारिका ने फिर पूछा-“पिता जी!
क्या मन्त्री ने पुल का निर्माण किया है?”
(घ) पिता
अकथयत्-“न हि पुत्रि! सेतोः निर्माणं
कर्मकराः अकुर्वन्!” पुनः अनारिकायाः प्रश्न: आसीत्-“यदि कर्मकराः
सेतोः निर्माणम् अकुर्वन्, तदा मन्त्री किमर्थम् आगच्छति?”
पिता अवदत्-“यतो हि सः अस्माकं देशस्य मन्त्री।”
“पितः! सेतोः निर्माणाय प्रस्तराणि कुतः आयान्ति?
किं तानि मन्त्री ददाति?”
सरलार्थ :
पिता ने कहा- “नहीं पुत्री!
पुल का निर्माण मजदूरों ने किया था।” फिर अनारिका
का प्रश्न था “यदि मजदूरों ने पुल बनाया है,
तब मन्त्री किसलिए आ रहे हैं?”
पिता बोले-“क्योंकि,
वे हमारे देश के मन्त्री हैं।”
“पिता जी! पुल को बनाने के लिए पत्थर कहाँ से आते हैं ?
क्या उन्हें मन्त्री देते हैं ?”
(ङ)
विरक्तभावेन पिता उदतरत्-“अनारिके! प्रस्तराणि जनाः
पर्वतेभ्यः आनयन्ति।”पितः! तर्हि किम्,
एतदर्थं मन्त्री धनं ददाति?
तस्य पार्वे धनानि कुतः आगच्छन्ति?”
एतान् प्रश्नान् श्रुत्वा पिताऽवदत्-“अरे! प्रजाः
सर्वकाराय धनं प्रयच्छन्ति।” विस्मिता अनारिका पुनः अपृच्छत् “पितः!
कर्मकराः पर्वतेभ्यः प्रस्तराणि आनयन्ति। ते एव सेतुं निर्मान्ति। प्रजाः
सर्वकाराय – धनं ददति। तथापि सेतोः उद्घाटनार्थं
मन्त्री किमर्थम् आगच्छति?”
सरलार्थ :
पिता ने उदासीन भाव से उत्तर दिया,
“अनारिका! पत्थर लोग पहाड़ों से लाते हैं।”
“पिता जी! तो क्या! इसके लिए मन्त्री धन देते हैं ?
उनके पास धन कहाँ से आते हैं?”
इन प्रश्नों को सुनकर पिता बोले -“अरे! प्रजाएँ
सरकार को धन देती हैं।” आश्चर्यचकित अनारिका ने फिर पूछा- “पिता जी!
मज़दूर पहाड़ों से पत्थर लाते हैं, वे ही पुल
बनाते हैं, प्रजाएँ सरकार को धन देती हैं,
तो भी मन्त्री पुल के उद्घाटन के लिए किसलिए (क्यों) आ रहे हैं?”
(च) पिता
अवदत्-“प्रथममेव अहम् अकथयम् यत् सः देशस्य
मन्त्री अस्ति।स जनप्रतिनिधिः अपि अस्ति। जनतायाः घोष निर्मितस्य सेतोः उद्घाटनाय
जन प्रतिनिधिः आमन्त्रितो भवति। चल, सुसज्जिता
भूत्वा विद्यालयं चल।” अनारिकायाः मनसि इतोऽपि बहवः
प्रश्नाः सन्ति।
सरलार्थ :
पिता बोले, “पहले ही मैंने कहा था कि वे देश के
मन्त्री हैं। जनप्रतिनिधि भी हैं। जनता के धन से बने हुए पुल के उद्घाटन के लिए
जनता के प्रतिनिधि निमन्त्रित किए जाते हैं। चलो,
तैयार होकर विद्यालय जाओ।”
अब भी अनारिका के मन में बहुत से प्रश्न हैं।
Chapter 14 अनारिकायाः जिज्ञासा प्रश्न उत्तर
प्रश्न: 1.
उच्चारणं
कुरुत- (उच्चारण कीजिए- Pronounce these.)
उत्तराणि:
छात्र
ध्यानपूर्वक शुद्ध उच्चारण करें।
प्रश्न: 2.
अधोलिखितानां
प्रश्नानां उत्तराणि लिखत- (निम्नलिखित प्रश्नों के उत्तर लिखिए- Write
answers of questions as given below.)
(क)
कस्याः महती जिज्ञासा वर्तते?
उत्तराणि:
(क) अनारिकायाः महती जिज्ञासा वर्तते।
(ख)
मन्त्री किमर्थम् आगच्छति?
उत्तराणि:
नद्याः उपरि यः नवीनः सेतुः निर्मितः तस्य उद्घाटनार्थं मन्त्री
आगच्छति।
(ग)
सेतोः निर्माणं के अकुर्वन् ?
उत्तराणि:
सेतोः निर्माणं कर्मकराः अकुर्वन्।
(घ)
सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?
उत्तराणि:
सेतोः निर्माणाय कर्मकराः प्रस्तराणि पर्वतेभ्यः आनयन्ति।
(ङ) के
सर्वकाराय धनं प्रयच्छन्ति?
उत्तराणि:
प्रजाः सर्वकाराय धनं प्रयच्छन्ति।
प्रश्न: 3.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- (रेखांकित शब्दों
के आधार पर प्रश्न निर्माण कीजिए Frame
questions based on the underlined words.)
(क) अनारिकायाः
प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति ।
उत्तराणि:
कस्याः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति?
(ख)
मन्त्री सेतोः उद्घाटनार्थम् आगच्छति ।
उत्तराणि:
मन्त्री किमर्थम् आगच्छति?
(ग)
कर्मकराः सेतोः निर्माणम् कुर्वन्ति।
उत्तराणि:
के सेतोः निर्माणम् कुर्वन्ति?
(घ)
पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवति ।
उत्तराणि:
केभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवति?
(ङ)
जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।
उत्तराणि:
जनाः कस्मै देशस्य विकासार्थं धनं ददति?
प्रश्न: 4.
उदाहरणानुसारं रूपाणि लिखत। (उदाहरण के अनुसार रूपों को लिखिए। Write the words according to the examples.)
उत्तराणि:
प्रश्न: 5.
कोष्ठकेभ्यः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत- (कोष्ठकों
से उचित शब्द चुनकर रिक्त स्थान भरिए- Fill in the blanks by choosing appropriate words from the
brackets.)
(क) अहं
प्रातः…….. सह
भ्रमणाय गच्छामि। (पित्रा/पितुः)
उत्तराणि:
पित्रा
(ख)
बाला आपणा…………. फलानि
आनयति। (भ्रातुः/भ्रात्रे)
उत्तराणि:
भ्रात्रे
(ग)
कर्मकरा: सेतोः निर्माणस्य………. भवन्ति।
(कर्तारम्/कर्तारः)
उत्तराणि:
कर्तारः
(घ) तव……… कुत्र जीविकोपार्जनं कुरुतः ? (भ्रातरः/भ्रातरौ)
उत्तराणि:
पिता
(ङ) मम……….तु एतेषां प्रश्नानाम् उत्तराणि
अददात् । (पिता/पितरः)
उत्तराणि:
भ्रातरौ।
प्रश्न: 6.
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
(चित्र को देखकर और मञ्जूषा में दिए गए शब्दों के प्रयोग से वाक्य बनाइए- See the picture and make sentences with the help of words
from the box.)
उत्तराणि:
बालाः छत्रम् धारयन्ति।
बालाः वर्षायाम् छत्रम् धारयन्ति ।
बालाः वर्षायाम् बसयानम् आरोहन्ति ।
ते बसयानम् आरोहन्ति।
प्रश्नः 7.
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत। (निम्नलिखित शब्दों के
आधार पर वाक्य बनाइए। Make
sentences based on the words given below.)
1. प्रश्नाः
= ……………..
2. नवीनः = ……………..
3. प्रातः = ……………..
4. आगच्छति = ……………..
5. प्रसन्नः = ……………..
उत्तराणि:
1. बालकस्य मनसि बहवः प्रश्नाः सन्ति ।
2. अयं नवीनः सेतुः अस्ति।
3. सा प्रातः उद्यानम् गच्छति।
4. मम भगिनी विद्यालयात् आगच्छति।
5. छात्रः प्रसन्नः अस्ति।
Class 7 Sanskrit Chapter 14 अनारिकायाः जिज्ञासा Additional Important Questions and Answers
(1) पूर्णवाक्येन
उत्तरत- (पूरे वाक्य में उत्तर दीजिए- Answer in complete sentence.)
(i) मन्त्री
किमर्थम् आगच्छति?
उत्तराणि:
मन्त्री नवीनस्य सेतोः उद्घाटनार्थम् आगच्छति।
(ii) कर्मकराः
पर्वतेभ्यः कानि आनयन्ति?
उत्तराणि:
कर्मकराः पर्वतेभ्यः प्रस्तराणि आनयन्ति।
(iii) सेतुः
कुत्र निर्मितः?
उत्तराणि:
सेतुः नद्याः उपरि निर्मित:।
(iv) के
सेतोः निर्माणं कुर्वन्ति?
उत्तराणि:
कर्मकराः सेतोः निर्माणं कुर्वन्ति।
(v) प्रजाः
कस्मै धनं ददति?
उत्तराणि:
प्रजाः सर्वकाराय धनं ददति।
(2) अधोदत्तानि
पदानि प्रयुज्य वाक्यानि रचयत- (नीचे दिए गए शब्दों का प्रयोग करके वाक्य रचना
कीजिए- Make sentence by using given words.)
(i) सेतोः – ……………..
(ii) जिज्ञासा – ……………..
(iii) प्रश्नान् – ……………..
(iv) पर्वतेभ्यः – ……………..
(v) प्रसन्नम् –
……………..
उत्तराणि:
(i) अस्य सेतोः उद्घाटनम् अग्रिमे सप्ताहे भविष्यति।
(ii) अनारिकायाः जिज्ञासा शान्ता न भवति।
(iii) सा स्व-पितरम् अनेकान् प्रश्नान् पृच्छति।
(iv) पर्वतेभ्यः अनेकाः नद्यः निर्गच्छन्ति।
(v) पुरस्कार प्राप्य मम चित्तं प्रसन्नम् जातम्।
(3) अधोदत्तानां
क्रियापदनां परिचयं यच्छत- (नीचे दिए गए क्रिया शब्दों का पद-परिचय दीजिए- Give grammatical details of verbs given below.)
उत्तराणि:
(1) रेखाङ्कितपदम्
आधृत्य प्रश्ननिर्माणं कुरुत- (रेखांकितपद के आधार पर प्रश्ननिर्माण कीजिए- Frame questions based on the word underlined. )
(i) कर्मकराः पर्वतेभ्यः प्रस्तराणि आनयन्ति। (केन, कस्य, कुतः)
उत्तराणि:
कर्मकराः कुतः प्रस्तराणि आनयन्ति?
(ii) मनोविनोदाय सा गृहात् बहिः अगच्छत्। (किमर्थम्, कथम्, कस्मात्)
उत्तराणि:
सा किमर्थम् गृहात् बहिः अगच्छत्?
(iii) सा पितरम् अपृच्छत्। (केन, कम्, कस्मै)
उत्तराणि:
सा कम् अपृच्छत्?
(iv) सुसज्जिता
भूत्वा सा विद्यालयम् अगच्छत्। (कुतः, कुत्र, कथम्)
उत्तराणि:
सुसज्जिता भूत्वा सा कुत्र अगच्छत्?
(v) अनारिकायाः मनसि महती जिज्ञासा आसीत्। (कस्य, कस्याः , कस्याम्)
उत्तराणि:
कस्याः मनसि
महती जिज्ञासा आसीत्?
(2) प्रदत्तविकल्पेभ्यः
उचितं पदं चित्वा वाक्यपूर्तिं कुरुत- (दिए गए विकल्पों से उचित पद को चुनकर
वाक्यपूर्ति कीजिए- Pick out
the correct form from the options given and complete the sentences.)
(i) उपरि
सेतुः निर्मितः। (नदीम्, नद्यः, नद्याः)
उत्तराणि:
नद्याः
(ii) ……… ! कर्मकराः
निर्माणकार्यं कुर्वन्ति। (पुत्री,
पुत्रे, पुत्रि)
उत्तराणि:
पुत्रि
(iii) गृहम्
आगत्य सा ” अपृच्छत्।
(पिताम्, पित्रम्, पितरम्)
उत्तराणि:
पितरम्
(iv) जनाः
वस्तूनि आनयन्ति। (आपणेन, आपणे, आपणात्)
उत्तराणि:
आपणात्
(v) बालिका
सह अगच्छत्। (भ्रातेन, भ्रातुः, भ्रात्रा)
उत्तराणि:
भ्रात्रा
(vi) बहिः
कारयानम् स्थितम्। (गृहस्य, गृहे, गृहात्)
उत्तराणि:
गृहात्
(vii) प्रजाः
धनम् यच्छन्ति। (सर्वकारं, सर्वाकाराय, सर्वकारे)
उत्तराणि:
सर्वकाराय
(viii) जनाः .
पृच्छन्ति। (नेतरम्, नेतुः, नेतारम्)
उत्तराणि:
नेतारम्।
(3) शुद्ध
रूपं रिक्तस्थाने लिखत। (शुद्ध रूप को रिक्तस्थान में लिखिए। Write down the correct form in the blank spaces.)
(i) नेतृ-प्रथमा
बहुवचनम् (नेतरः, नेतारः, नेताः)
उत्तराणि:
नेतारः
(ii) भ्रातृ-द्वितीया
एकवचनम् (भ्रातारम्, भ्रात्रं, भ्रातरम्)
उत्तराणि:
भ्रातरम्
(iii) दातृ-द्वितीया
एकवचनम् (दातरम्, दातारम्, दात्रम्)
उत्तराणि:
दातारम्
(iv) पितृ-षष्ठी
द्विवचनम् (पितृयोः, पित्रो, पित्रोः)
उत्तराणि:
पित्रोः
(v) कर्तृ-षष्ठी
एकवचनम् (कर्तृस्य, कर्त्तायाः, कर्तुः)
उत्तराणि:
कर्तुः।
(4) अधोदत्तं
प्रत्येकं पाठांशम् पठत प्रश्नान् च उत्तरत- (निम्नलिखित प्रत्येक पाठांश को पढ़िए
और प्रश्नों के उत्तर दीजिए- Read each
extract given below and answer the questions that follow.)
(क)
प्रातः उत्थाय सा अन्वभवत् यत् तस्याः मनः प्रसन्नं नास्ति। मनोविनोदाय सा
भ्रमितुं गृहात् बहिः अगच्छत्। भ्रमणकाले सा अपश्यत् यत् मार्गाः सुसज्जिताः
सन्ति। सा चिन्तयति- किमर्थम् इयं सज्जा? सा
अस्मरत् यत् अद्य तु मन्त्री आगमिष्यति। सः अत्र किमर्थम् आगमिष्यति इति विषये
तस्याः जिज्ञासाः प्रारब्धाः।
I. एकपदेन
उत्तरत- (एक शब्द में उत्तर दीजिए- Answer
in one word.)
(i) कस्याः
मनः प्रसन्नं नास्ति?
उत्तराणि:
अनारिकायाः/बालिकायाः
(ii) सा
किमर्थं बहिः अगच्छत्?
उत्तराणि:
भ्रमितुं/भ्रमणाय
(iii) के
सुसज्जिताः सन्ति?
उत्तराणि:
मार्गाः
(iv) अद्य
कः आगमिष्यति?
उत्तराणि:
मन्त्री
II. पूर्णवाक्येन
उत्तरत- (पूर्ण वाक्य में उत्तर दीजिए- Answer in a complete sentence.)
(i) भ्रमणकाले
सा किम् अपश्यत्?
उत्तराणि:
भ्रमणकाले सा अपश्यत् यत् मार्गाः सुसज्जिताः सन्ति।
(ii) सा
किम् अस्मरत्?
उत्तराणि:
सा अस्मरत् यत् अद्य मन्त्री आगमिष्यति।
III. भाषिक
कार्यम्
1. (i) ‘मनः
प्रसन्नम्’- अत्र
विशेषणपदम् किम्?
उत्तराणि:
प्रसन्नम्
(ii) ‘मनः’ इति पदम् पुल्लिगम् अथवा
नपुंसकलिंगम्?
उत्तराणि:
नपुंसकलिंगम्
2. ‘गृहात्
बहि:’-अत्र ‘बहिः’ योगे का विभक्तिः ? (पञ्चमी, षष्ठी)
उत्तराणि:
पञ्चमी
3. ‘सा
अस्मरत् यत् अद्य तु मन्त्री आगमिष्यति’ इति वाक्ये- ‘आगमिष्यति’ क्रियापदस्य कर्ता कः? (सा, मन्त्री)
उत्तराणि:
मन्त्री
4. ‘सः
अत्र किमर्थम् आगमिष्यति’ इति
वाक्ये कति अव्ययानि प्रयुक्तानि? (एकम्, द्वे)
उत्तराणि:
द्वे (अत्र, किमर्थम्)
(ख)
विरक्तभावेन पिता उदतरत्- “अनारिके
! प्रस्तराणि जनाः पर्वतेभ्यः आनयन्ति”। पितः ! तर्हि किम्, एतदर्थं
मन्त्री धनं ददाति? तस्य
पार्श्वे धनानि कुतः आगच्छन्ति?” एतान्
प्रश्नान् श्रुत्वा पिताऽवदत्”अरे! प्रजाः सर्वकाराय धनं
प्रयच्छन्ति।” विस्मिता
अनारिका पुनः अपृच्छत्-“पितः!
कर्मकराः पर्वतेभ्यः प्रस्तराणि आनयन्ति। ते एव सेतुं निर्मान्ति। प्रजाः
सर्वकाराय धनं ददति। तथापि सेतो: उद्घाटनार्थं मन्त्री किमर्थम् आगच्छति?”
I. एकपदेन
उत्तरत –
(i) कर्मकराः
पर्वतेभ्यः कानि आनयन्ति?
उत्तराणि:
प्रस्तराणि
(ii) काः
सर्वकाराय धनं यच्छन्ति?
उत्तराणि:
प्रजाः
(iii) के
सेतुं निर्मान्ति?
उत्तराणि:
कर्मकराः
(iv) अनारिका
कम् सर्वान् प्रश्नान् पृच्छति?
उत्तराणि:
पितरम्
II. पूर्णवाक्येन
उत्तरत –
(i) सेतोः
निर्माणकार्ये के-के योगदानं कुर्वन्ति?
उत्तराणि:
(i) कर्मकराः प्रस्तराणि आनयन्ति सेतुं च निर्मान्ति प्रजाः च
सर्वकाराय धनं यच्छन्ति।
(ii) अनारिकायाः
मनसि का जिज्ञासा?
उत्तराणि:
अनारिकायाः मनसि इयं जिज्ञासा अस्ति यत् सेतोः उद्घाटनार्थं
मन्त्री किमर्थम् आगच्छति।
III. भाषिक
कार्यम् –
1. (i) ‘अनारिके!
प्रस्तराणि जनाः पर्वतेभ्यः आनयन्ति’
इति वाक्ये ‘आनयन्ति’ क्रियापदस्य कः कर्ता? (प्रस्तराणि, जनाः, पर्वतेभ्यः)
उत्तराणि:
जनाः
(ii) ‘आनयन्ति’ क्रियापदस्य किम् कर्म? (प्रस्तराणि, अनारिके, पर्वतेभ्यः)
उत्तराणि:
प्रस्तराणि
(iii) ‘अनारिके’ – अत्र किं विभक्तिवचनम्? (सप्तमी एकवचनम्, प्रथमा द्विवचनम्, सम्बोधनम् एकवचनम्)
उत्तराणि:
सम्बोधनम् एकवचनम्
2. ‘एतान्
प्रश्नान्’ अत्र
किं विशेष्यपदम्?
उत्तराणि:
प्रश्नान्
3. समानार्थकं
पदं लिखत।
(क) जनक! –
…………………..
(ख) यच्छन्ति –
………………….
उत्तराणि:
(क) पित:!
(ख) ददति
4. ‘सेतोः’ अत्र किं विभक्तिवचनम्?
(पञ्चमी एकवचनम्,
षष्ठी एकवचनम्, प्रथमा
द्विवचनम्)
उत्तराणि:
षष्ठी एकवचनम् ।
0 Comments